हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yuddha Kanda Sarga 33 – युद्धकाण्ड त्रयस्त्रिंशः सर्गः (३३)
॥ सरमासमाश्वासनम् ॥
सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी ।
आससादाथ वैदेहीं प्रियां प्रणयिनी सखीम् ॥ १ ॥
मोहितां राक्षसेन्द्रेण सीतां परमदुःखिताम् ।
आश्वासयामास तदा सरमा मृदुभाषिणी ॥ २ ॥
सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया ।
रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता ॥ ३ ॥
सा ददर्श ततः सीतां सरमा नष्टचेतनाम् ।
उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुलाम् ॥ ४ ॥
तां समाश्वासयामास सखीस्नेहेन सुव्रता ।
समाश्वसिहि वैदेहि माभूत्ते मनसो व्यथा ॥ ५ ॥
उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया ।
सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम् ॥ ६ ॥
लीनया गगने शून्ये भयमुत्सृज्य रावणात् ।
तव हेतोर्विशालाक्षि न हि मे जीवितं प्रियम् ॥ ७ ॥
स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः ।
तच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि ॥ ८ ॥
न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः ।
वधश्च पुरुषव्याघ्रे तस्मिन्नैवोपपद्यते ॥ ९ ॥
न त्वेव वानरा हन्तुं शक्याः पादपयोधिनः ।
सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ॥ १० ॥
दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान् ।
धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः ॥ ११ ॥
विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च ।
लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित् ॥ १२ ॥ [कुलीनो]
हन्ता परबलौघानामचिन्त्यबलपौरुषः ।
न हतो राघवः श्रीमान् सीते शत्रुनिबर्हणः ॥ १३ ॥
अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना ।
इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ॥ १४ ॥
शोकस्ते विगतः सर्वः कल्याणं त्वामुपस्थितम् ।
ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु ॥ १५ ॥
उत्तीर्य सागरं रामः सह वानरसेनया ।
सन्निविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ॥ १६ ॥
दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः ।
स हि तैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः ॥ १७ ॥
अनेन प्रेषिता ये च राक्षसा लघुविक्रमाः ।
राघवस्तीर्ण इत्येव प्रवृत्तिस्तैरिहाहृता ॥ १८ ॥
स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः ।
एष मन्त्रयते सर्वैः सचिवैः सह रावणः ॥ १९ ॥
इति ब्रुवाणा सरमा राक्षसी सीतया सह ।
सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् ॥ २० ॥
दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम् ।
उवाच सरमा सीतामिदं मधुरभाषिणी ॥ २१ ॥
सन्नाहजननी ह्येषा भैरवा भीरु भेरिका ।
भेरीनादं च गम्भीरं शृणु तोयदनिःस्वनम् ॥ २२ ॥
कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः ।
हृष्यन्ते तुरगारूढाः प्रासहस्ताः सहस्रशः ॥ २३ ॥
तत्र तत्र च सन्नद्धाः सम्पतन्ति पदातयः ।
आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः ॥ २४ ॥
वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः ।
शस्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा ॥ २५ ॥
रथवाजिगजानां च भूषितानां च रक्षसाम् ।
प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम् ॥ २६ ॥
वनं निर्दहतो घर्मे यथा रूपं विभावसोः ।
घण्टानां शृणु निर्घोषं रथानां शृणु निःस्वनम् ॥ २७ ॥
हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा ।
उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् ॥ २८ ॥
सम्भ्रमो रक्षसामेष तुमुलो रोमहर्षणः ।
श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम् ॥ २९ ॥
रामः कमलपत्राक्षोऽदैत्यानामिव वासवः ।
विनिर्जित्य जितक्रोधस्त्वामचिन्त्यपराक्रमः ॥ ३० ॥
रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति ।
विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः ॥ ३१ ॥
यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ।
आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम् ॥ ३२ ॥
अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते ।
अश्रूण्यानन्दजानि त्वं वर्तयिष्यसि शोभने ॥ ३३ ॥
समागम्य परिष्वज्य तस्योरसि महोरसः ।
अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम् ॥ ३४ ॥
धृतामेतां बहून्मासान्वेणीं रामो महाबलः ।
तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम् ॥ ३५ ॥
मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी ।
रावणं समरे हत्वा न चिरादेव मैथिलि ॥ ३६ ॥
त्वया समग्रः प्रियया सुखार्हो लप्स्यते सुखम् ।
समागता त्वं वीर्येण मोदिष्यसि महात्मना ।
सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ॥ ३७ ॥
गिरिवरमभितोऽनुवर्तमानो
हय इव मण्डलमाशु यः करोति ।
तमिह शरणमभ्युपेहि देवं
दिवसकरं प्रभवो ह्ययं प्रजानाम् ॥ ३८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.